(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.180. अध्यायः 180
Mahabharata - Drona Parva - Chapter Topics
कर्णेन घटोत्कचवधः॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-180-0x(4738)(53296)
निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः।
ननाद विविधान्नादान्वाहिन्या प्रमुखे तव॥ 7-180-1(53297)
तस्य तं तुमुलं शब्दं श्रुत्वा हृदयकम्पनम्।
तावकानां महाराज भयमासीत्सुदारुणम्॥ 7-180-2(53298)
अलायुधविषक्तं तु भैमसेनिं महाबलम्।
दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत्॥ 7-180-3(53299)
दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ।
दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः॥ 7-180-4(53300)
ततः परमनाराचैर्युधामन्यूत्तमौजसौ।
सात्यकिं च रथोदारं कम्पयमास मार्गणैः॥ 7-180-5(53301)
तेषामप्यस्यतां सङ्ख्ये सर्वेषां सव्यदक्षिणम्।
मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप॥ 7-180-6(53302)
तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह।
मेघानामिव घर्मान्ते बभूव तुमुलो निशि॥ 7-180-7(53303)
ज्यानेमिघोषस्तनयित्नुमान्वै
धनुस्तटिन्मण्डलकेतुशृङ्गः।
शरौघवर्षाकुलवृष्टिमांश्च
सङ्क्राममेघः स बभूव राजन्॥ 7-180-8(53304)
तदद्भुतं शैल इवाप्रकम्पो
वर्षं महाशैलसमानसारः।
विध्वंसयामास रणे नरेनद्र
वैकर्तनः शत्रुगणावमर्दी॥ 7-180-9(53305)
ततोऽतुलैर्वज्रनिपातकल्पैः
शितैः शरैः काञ्चनचित्रपुङ्खैः।
शत्रून्व्यपोहत्समरे महात्मा
वैकर्तनः पुत्रहिते रतस्ते॥ 7-180-10(53306)
सञ्छिन्नभिन्नध्वजिनश्च केचि--
त्केचिच्छरैरर्दितभिन्नदेहाः।
केचिद्विसूता विहयाश्च केचि--
द्वैकर्तनेनाशु कृता बभूवुः॥ 7-180-11(53307)
अविन्दमानास्त्वथ शर्म सङ्ख्ये
यौधिष्ठिरं ते बलमभ्यपद्यन्।
तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च
घटोत्कचो रोषमतीव चक्रे॥ 7-180-12(53308)
आस्थाय तं काञ्चनरत्नचित्रं
रथोत्तमं सिंहवत्सन्ननाद।
वैकर्तनं कर्णमुपेत्य चापि
विव्याध वज्रप्रतिमैः पृषत्कैः॥ 7-180-13(53309)
तौ कर्णिनाराचशिलीमुखैश्च
नालीकदण्डासनवत्सदन्तैः।
वराहकर्णैः सविपाठशृङ्गै-
क्षुरप्रवर्षैश्च विनेदतुः खम्॥ 7-180-14(53310)
तद्बाणधारावृतमन्तरिक्षं
तिर्यग्गताभिः समरे रराज।
सुवर्णपुङ्खज्वलितप्रभाभि--
र्विचित्रपुष्पाभिरिव प्रजाभिः॥ 7-180-15(53311)
समाहितावप्रतिमप्रभावा--
वन्योन्यमाजघ्नतुरुत्तमास्त्रैः।
तयोर्हि वीरोत्तमयोर्न कश्चि--
द्ददर्श तस्मिन्समरे विशेषम्॥ 7-180-16(53312)
अतीव तच्चित्रमतुल्यरूपं
बभूव युद्धं रविभीमसून्वोः।
समाकुलं शस्त्रनिपातघोरं
दिवीव राह्वंशुमतोः प्रमत्तम्॥ 7-180-17(53313)
सञ्जय उवाच। 7-180-18x(4739)
घटोत्कचं यदा कर्णो न विशेषयते नृप।
ततः प्रादुश्चकारोग्रमत्त्रमस्त्रविदां वरः॥ 7-180-18(53314)
तेनास्त्रेणावधीत्तस्य रथं सहयसारथिम्।
विरथश्चापि हैडिम्बिः क्षिप्रमन्तरधीयत॥ 7-180-19(53315)
धृतराष्ट्र उवाच। 7-180-20x(4740)
तस्मिन्नन्तर्हिते तूर्णं कुटयोधिनि राक्षसे।
मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व सञ्जय॥ 7-180-20(53316)
सञ्जय उवाच। 7-180-21x(4741)
अन्तर्हितं राक्षसेन्द्रं विदित्वा
सम्प्राक्रोशन्कुरवः सर्व एव।
कथं नायं राक्षसः कूटयोधी
हन्यात्कर्णं समरेऽदृश्यमानः॥ 7-180-21(53317)
ततः कर्णो लघुचित्रास्त्रयोधी
सर्वा दिशः प्रावृणोद्बाणजालैः।
न वै किञ्चित्प्रापतत्तत्र भूतं
तमोभूते सायकैरन्तरिक्षे॥ 7-180-22(53318)
नैवाददानो न च सन्दधानो
न चेषुधीस्पृशमानः कारग्रैः।
अदृश्यद्वै लाघवात्सूतपुत्रः
सर्वं बाणैश्छादयानोऽन्तरिक्षम्॥ 7-180-23(53319)
ततो मायां दारुणामन्तरिक्षे
घोरां भीमां विहितां राक्षसेन।
अपश्याम लोहिताभ्रप्रकाशां
देदीप्यन्तीमग्निशिखामिवोग्राम्॥ 7-180-24(53320)
ततस्तस्यां विद्युतः प्रादुरास--
न्नुल्काश्चापि ज्वलिताः कौरवेन्द्र।
घोपश्चास्यः प्रादुरासीत्सुघोरः
सहस्रशो नदतां दुन्दुभीनाम्॥ 7-180-25(53321)
ततः शराः प्रापतन्रुक्मपुङ्खाः
शक्त्यृष्टिप्रासमुसलान्यायुधानि।
परश्वथास्तैलधौताश्च खङ्गाः
प्रदीप्ताग्रास्तोमराः पट्टसाश्च॥ 7-180-26(53322)
मयूखिनः परिघा लोहबद्धा
गदाश्चित्राः शितधाराश्च शूलाः।
गुर्व्यो गदा हेमपट्टावनद्धाः
शतघ्न्यश्च प्रादुरासन्समन्तात्॥ 7-180-27(53323)
महाशिलाश्चापतंस्तत्रतत्र
सहस्रशः साशनयश्च वज्राः।
चक्राणि चानेकशतक्षुराणि
प्रादुर्बभूवुर्ज्वलनप्रभाणि॥ 7-180-28(53324)
तां शक्तिपाषाणपरश्वथानां
प्रासासिवज्राशनिमुद्गराणाम्।
वृष्टिं विशालां ज्वलितां पतन्तीं
कर्णः शरौघैर्न शशाक हन्तुम्॥ 7-180-29(53325)
शराहतानां पततां हयानां
वज्राहतानां च तथा गजानाम्।
शिलाहतानां च महारथानां
महान्निनादः पततां बभूव॥ 7-180-30(53326)
सुभीमनानाविधशस्त्रपातै--
र्घटोत्कचेनाभिहतं समन्तात्।
दौर्योधनं वै बलमार्तरूप--
मावर्तमानं ददृशे भ्रमत्तत्॥ 7-180-31(53327)
हाहाकृतं सम्परिवर्तमानं
संलीयमानं च विषण्णरूपम्।
ते त्वार्यभावात्पुरुषप्रवीराः
पराङ्मुखा नो बभूवुस्तदानीम्॥ 7-180-32(53328)
तां राक्षसीं भीमरूपां सुघोरां
वृष्टिं महाशस्त्रमयीं पतन्तीम्।
दृष्ट्वा बलौघांश्च निपात्यमाना--
न्महद्भयं तव पुत्रान्विवेश॥ 7-180-33(53329)
शिवाश्च वैश्वानरदीप्तजिह्वाः
सुभीमनादाः शतशो नदन्तीः।
रक्षोगणान्नर्दतश्चापि वीक्ष्य
नरेन्द्र योधा व्यथिता बभूवुः॥ 7-180-34(53330)
ते दीप्तजिह्वानलतीक्ष्णदंष्ट्रा
विभीषणाः शैलनिकाशकायाः।
नभोगताः शक्तिविषक्तहस्ता
मेघा व्यमुञ्चन्निव वृष्टिमुग्राम्॥ 7-180-35(53331)
तैराहतास्ते शरशक्तिशूलै--
र्गदाभिरुग्रैः परिघैश्च दीप्तैः।
वज्रैः पिनाकैरशनिप्रहारैः
शतघ्निचक्रैर्भथिताश्च पेतुः॥ 7-180-36(53332)
शूला भुशुण्ड्योऽश्मगुडाः शतघ्न्यः
स्थूलाश्च कार्ष्णायसपट्टनद्वाः।
तेऽवाकिरंस्तव पुत्रस्य सैन्यं
ततो रौद्रं कश्मलं प्रादुरासीत्॥ 7-180-37(53333)
विकीर्णान्त्रा विहतैरुत्तमाङ्गैः
सम्भग्नाङ्गः शिश्यिरे तत्र शूराः।
छिन्ना हयाः कुञ्जराश्चापि भग्ना
न मुच्यन्ते याचमानाः सुभीताः॥ 7-180-38(53334)
एवं महच्छस्त्रवर्षं सृजन्त--
स्ते यातुधाना भुवि घोररूपाः।
मायाः सृष्टास्तत्र घटोत्कचेन
नामुञ्चन्वै याचमानं न भीतम्॥ 7-180-39(53335)
तस्मिन्घोरे कुरुवीरावमर्दे
कालोत्सृष्टे क्षत्रियाणामभावे।
ते वै भग्नाः सहसा व्यद्रवन्त
प्राक्रोशन्तः कौरवाः सर्व एव॥ 7-180-40(53336)
पलायध्वं कुरवो नैतदस्ति
सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे।
तथा तेषां मज्जतां भारतानां
तस्मिन्द्वीपः सूतपुत्रो बभूव॥ 7-180-41(53337)
तस्मिन्सङ्क्रन्दे तुमुले वर्तमाने
सैन्ये भग्ने लीयमाने कुरूणाम्।
अन्नीकानां प्रविभागे प्रकाशे
न ज्ञायन्ते कुरवो नेतरे च॥ 7-180-42(53338)
निर्मर्यादे विद्रवे घोररूपे
सर्वा दिशः प्रेक्षमाणाः स्म शून्याः।
तां शस्त्रवृष्टिमुरसा गाहमानं
कर्णं स्मैकं तत्र राजन्नपश्यन्॥ 7-180-43(53339)
ततो बाणैरावृणोदन्तरिक्षं
दिव्यां मायां योधयन्राक्षसस्य।
हीमान्कुर्वन्दुष्करं चार्यकर्म
नैवामुह्यत्संयुगे सूतपुत्रः॥ 7-180-44(53340)
ततो भीताः समुदैक्षन्त कर्णं
राजन्सर्वे सैन्धवा बाह्लिकाश्च।
असम्मोहं पूजयन्तोऽस्य सङ्ख्ये
सम्पश्यन्तो विजयं राक्षसस्य॥ 7-180-45(53341)
तेनोत्सृष्टा चक्रयुक्ता शतघ्नी
समं सर्वांश्चतुरोऽश्वाञ्जघान।
ते जानुभिर्जगतीमन्वपद्य--
न्गतासवो निर्दशनाक्षिजिह्वाः॥ 7-180-46(53342)
ततो हताश्वादवरुह्य याना--
दन्तर्मनाः कुरुषु प्राद्रुवत्सु।
दिव्ये चास्त्रे मायया वध्यमाने
नैवामुह्यच्चिन्तयन्त्प्राप्तकालम्॥ 7-180-47(53343)
ततोऽब्रुवन्कुरवः सर्व एव
कर्णं दृष्ट्वा घोररूपां च मायाम्।
शक्त्या रक्षो जहि कर्णाद्य तूर्णं
नश्यन्त्येते कुरवो धार्तराष्ट्राः॥ 7-180-48(53344)
करिष्यतः किञ्च नो भीमपार्थौ
तपन्तमेनं जहि पापं निशीथे।
यो नः सङ्ग्रामाद्धोररूपाद्विमुच्ये--
त्स नः पार्थान्सबालान्योधयेत॥ 7-180-49(53345)
तस्मादेनं राक्षसं घोररूपं
शक्त्या जहि त्वं दत्तया वासवेन।
मा कौरवाः सर्व एवेन्द्रकल्पा
रात्रियुद्धे कर्ण नेशुः सयोधाः॥ 7-180-50(53346)
स वध्यमानो रक्षसा वै निशीथे
दृष्ट्वा राजंस्त्रास्यमानं बलं च।
महच्छ्रुत्वा निनदं कौरवाणां
मतिं दध्रे शक्तिमोक्षाय कर्णः॥ 7-180-51(53347)
स वै क्रुद्धः सिंह इवात्यमर्षी
नामर्षयन्प्रतिघातं रणेऽसौ।
शक्तिं श्रेष्ठां वैजयन्तीमसह्यां
समाददे तस्य वधं चिकीर्षन्॥ 7-180-52(53348)
याऽसौ राजन्निहिता वर्षपूगा--
न्वधायाजौ सत्कृता फल्गुनस्य।
यां वै प्रादात्सूत पुत्राय शक्रः
शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय॥ 7-180-53(53349)
तां वै शक्तिं लेलिहानां प्रदीप्तां
पाशैर्युक्तामन्तकस्येव जिह्वाम्।
मृत्योः स्वसारं ज्वलितामिवोल्कां
वैकर्तनः प्राहिणोद्राक्षसाय॥ 7-180-54(53350)
तामुत्तमां परकायावहन्त्रीं
दृष्ट्वा शक्तिं बाहुसंस्थां ज्वलन्तीम्।
भीतं रक्षो विप्रदुद्राव राजन्
कृत्वाऽऽत्मानं विन्ध्यतुल्यप्रमाणम्॥ 7-180-55(53351)
दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां
नेदुर्भूतान्यन्तरिक्षे नरेन्द्र।
ववुर्वातास्तुमुलाश्चापि राज--
न्सनिर्घाता चाशनिर्गां जगाम॥ 7-180-56(53352)
सा तां मायां भस्म कृत्वा ज्वलन्ती
भित्त्वा गाढं हृदयं राक्षसस्य।
ऊर्ध्वं ययौ दीप्यमाना निशायां
नक्षत्राणामन्तराण्याविवेश॥ 7-180-57(53353)
स निर्भिन्नो विविधैरस्त्रपूगै--
र्दिव्यैर्नागैर्मानुषै राक्षसैश्च।
नदन्नादान्विविधान्भैरवांश्च
प्राणानिष्टांस्त्याजितः शक्रशक्त्या॥ 7-180-58(53354)
इदं चान्यच्चित्रमाश्चर्यरूपं
चकारासौ कर्म शत्रुक्षयाय।
तस्मिन्काले शक्तिनिर्भिन्नमर्मा
बभौ राजञ्शैलमेघप्रकाशः॥ 7-180-59(53355)
ततोऽन्तरिक्षादपतद्गतासुः
स राक्षसेन्द्रो भुवि भिन्नदेहः।
अवाक्शिराः स्तब्धगात्रो विजिह्वो
घटोत्कचो महदास्थाय रूपम्॥ 7-180-60(53356)
स तद्रूपं भैरवं भीमकर्मा
भीमं कृत्वा भैमसेनिः पपात।
हतोऽप्येवं तव सैन्यैकदेश--
मपोथयत्स्वेन देहेन राजन्॥ 7-180-61(53357)
पतद्रक्षः स्वेन कायेन तूर्ण--
मतिप्रमाणेन विवर्धता च।
प्रियं कुर्वन्पाण्डवानां गतासु--
रक्षौहिणीं तव तूर्णं जघान॥ 7-180-62(53358)
ततो मिश्राः प्राणदन्सिंहनादै--
र्भेर्यः शङ्खा मुरजाश्चानकाश्च।
दग्धां मायां निहतं राक्षसं च
दृष्ट्वा हृष्ट्वाः प्राणदन्कौरवेयाः॥ 7-180-63(53359)
ततः कर्णः कुरुभिः पूज्यमानो
यथा शक्रो वृत्रवधे मरुद्भिः।
अन्वारूढस्तव पुत्रस्य यानं
हृष्टश्चापि प्राविशत्तत्स्वसैन्यम्॥ ॥ 7-180-64(53360)

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे अशीत्यधिकशततमोऽध्यायः॥ 180 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-180-8 केतुशृङ्गः ध्वजशिखरः॥ 5-180-15 तिर्यग्गताभिरिषुपङ्क्तिभिरिति शेषः॥ 5-180-20 प्रतिपन्नं कर्तव्यत्वेन ज्ञातमनुष्ठितं च॥ 5-180-23 अदृश्यात् अदृश्यत॥ 5-180-43 उरसा हार्दबलेन॥ 5-180-180 अशीत्यधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.